समययापनम्- संस्कृत लेख

                        

                                                     समययापनम्-

अलङ्कारशब्दस्य विग्रह:शब्दार्थश्च-


अलम्पूर्वकात् डुकृञ् करणे इत्येतस्माद्धातो: भावेर्थे "भावे" इत्यनेन सूत्रेण घञ् प्रत्ययेनुबन्धलोपे ञित्वादादिवृद्धौ अलङ्कारशब्दो निष्पद्यते। अलङ्कारशब्दस्य व्युत्पत्तिलभ्योर्थो भवत्याभूषणं मण्डनमित्यादि: जयदेवस्यालङ्कारलक्षणन्तथा महत्त्वममुष्मिन्नलङ्कारविचारसन्दर्भे ध्येयं भवति-
अङ्गीकरोति :काव्यं शब्दार्थावनलङ्कृती।
असौ मन्यते कस्मादनुष्णमनलङ्कृती??(चन्द्रालोके)
दण्डिनो मतेलङ्कारा कथङ्कारा भवन्तीति विविदिषायाम्-
काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते।

प्रस्तावना-
                                  काव्यालापाश्च ये केचिद्गीतकान्यखिलानि च।
                                  शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मन:।।


इत्युक्तदिशा काव्यसम्बद्धां यां कामपि कण्डूतिं प्रशासति विद्वांस: काव्यं भवति सरसमर्थगाम्भीर्ययुतमत्यन्तं मनोहारीत्यनुभूतपूर्वोसौ विषय: अतो विद्वांस: काव्यस्यैकदेशं समग्राङ्गं वोपदिशन्ति स्वविषयीकुर्वते। आचार्येषु सूक्ष्मेक्षिका बुद्धिर्भवति यतस्ते सूक्ष्मातिसूक्ष्ममपि विषयं स्वकल्पनया दीर्घकाये परिणमन्ति। इयमेव बुद्धिर्विविधांस्तर्कान् वादान् सिद्धान्तान् पथान् वा प्रथयन्ती बोभोति। काव्यशास्त्रमिदं युवजनान् सरससरलवाग्भि: कृत्याकृत्ये प्रति प्रेरयति निर्वर्तयति वेति विश्वनाथमतमत्र ध्येयं भवति। साहित्यशास्त्राणां परम्परा नाधुनिकीति विदितविषय: अत्र साहित्यशास्त्रे प्रतिवादिभीकरा बहवो काव्यमूर्धन्या: काव्यसरणिसरणोत्पन्नप्रतिभाजातलक्षणशास्त्रिण: साहित्यैकचक्षुष्का: सन्तीति साहित्यलक्षणशास्त्रावगाहनेन ज्ञायते। बहवस्तथाभूता: सिद्धान्ता: साहित्यलक्षणशास्त्रिभि: प्रकटीकृता येषां प्रकटीकरणमपि भवतीति ज्ञात्वाश्चर्यं महदुगमितबुद्धयो वयम्। रसालङ्कारध्वनीनामेवं प्रकटीकरणमद्वितीयां तेषां विचक्षणतां समर्थयति। साहित्यलक्षणशास्त्रिणां प्रायेण षट्सिद्धान्ता प्रथिता: आदिमो लक्षणशास्त्रकृद्भवति भरतमुनि: नाट्यशास्त्रमित्यमुष्य भरतस्य प्रथमा कृती रससिद्धान्तस्य पोषिका विभाति अतो रससिद्धान्तस्यादिम आचार्योसौ भरतो बभूव। इत:परमनेकेवर्तिषताचार्या यै रससिद्धान्त: पोषित: विश्वनाथजगन्नाथादय: भरतात्परमाचार्या अलङ्कारसिद्धान्तमुररीकृत्य स्वविचारान् समाम्नासिषु: अलङ्कारस्य आदिमो विचारको भवति भामह: षट्शतवर्षानन्तरमसौ भरताद्वर्तिष्टेत्यैतिह्यविदां मतम्। अलङ्कारसिद्धान्तं पुष्णन्तोन्येप्युद्भटरुद्रटादय: अमुमेव सिद्धान्तमालिङ्ग्य मेत्र प्रवृत्तिरस्तीति विज्ञापयामि।
आदावलङ्कारास्त्रिधा विभज्य विशिश्लिष्यन्ते, त्रिप्रकाराश्च यथा- शब्दालङ्कार:, अर्थालङ्कार:, उभयालङ्कारश्चेतिभेदात्।
शब्दालङ्कारेषु- अनुप्रास-यमक-श्लेष-पुनरुक्तवदाभासादयस्समाविर्भवन्ति।
अर्थालङ्कारेषु- उपमानन्वयोत्प्रेक्षारूपकापह्नुतिसमासोक्त्यादय: परिगणिता:
उभयालङ्कारेषु संसृष्टिसङ्करादय: व्यवह्रियन्ते। समेषामपि विदुष्मतां लक्षणशास्त्रिणामलङ्कारसङ्ख्याविषये वैविध्यं दरीदृश्यते।

अलङ्कारगणनासन्दर्भे विपश्चिद्वेद्यानां मतमेवं ध्येयं भवति-


उपमा रूपकं चैव दीपको यमकस्तथा।
चत्वार एवालङ्कारा भरतेन निरूपिता:।।
वामनेन त्रयस्त्रिंशद्भेदास्तस्य निरूपिता:
पञ्चत्रिंशद्विधश्चायं दण्डिना प्रतिपादित:।।
नवत्रिंशद्विधश्चायं भामहेन कीर्तितः।
चत्वारिंशद्विधश्चास्योद्भटेनात्र प्रदर्शित:।।
द्विपञ्चाशद्विध: प्रोक्तो रुद्रटेन विपश्चिता।
सप्तषष्टिविध: काव्यप्रकाशे मम्मटेन च।।
शतधा जयदेवेन विभक्तो दीक्षितेन वा।
एकविंशतिभेदास्तु कृता एकशतोत्तरा:।।

.अपह्नुति:-

अर्थालङ्कारेषु एकोलङ्कारो भवत्यपह्नुति: असावलङ्कार: शब्दार्थभेदेन द्विधा भवति। अयमलङ्कारो निषेधपरको भवति। सामान्येन उपमेयस् निषेधे सति उपमानस् स्थापना अपह्नुति: कथ्यते।आशयो भवति यत्रोपमेयस् निषेधं कृत्वा तस्योपरि उपमानस् स्थापना क्रियते तत्र अपह्नुति अलंकार: भवति काव्यप्रकाशकृता यथा लक्षणं प्रदत्तम्-


प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुति: उपमेयममसत्यं कृत्वा उपमानमेव यदा सत्यत्त्वेनोपस्थाप्यते एवम्प्रकारकेषु स्थानेषु अपह्नुतिरलङ्कारो भवति।
विश्वनाथेन यल्लक्षणं प्रस्तुतं तदपि अपह्नुतिचर्चावसरे दृश्यम्भवति-
गोपनीयं कमप्यर्थं द्योतयित्वा कथञ्चन।
यदि श्लेषेणान्यथा वान्यथयेत् साप्यपह्नुति:।।
यदि गोपनीयार्थमुक्त्वापि श्लेषेण आहोस्वित् अन्येन येन केन प्रकारेण तं गोपयितुं प्रयत्नो विधीयते असावलङ्कार: अपह्नुति:


काव्यप्रकाशकारेण द्वैविध्यं प्रदर्श्य द्वयोरप्युदाहरणे प्रस्तुते। आदौ शब्दालङ्कार:-


अवाप्त:प्रागल्भ्यं परिणतरुच:शैलतनये!
कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि।
अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे
रतिश्रान्ता रजनिरमणी गाढमुरसि।।
अथात्र प्रकृतस्थले उपमेयभूतस्य कलङ्कस्य निषेधमाचरता कविनोपमानभूताया रात्र्या उपस्थानमभिहितमिति अपह्नुतिरलङ्कार: आर्थ्यपह्नुतौ प्रकृतस्य निषेधाय क्वचित्कपटार्थोत्पादकशब्दानां्रहणम्भवति। क्वचिच्चान्येषामप्युपायानामालिङ्गनं भवतीति वस्तुस्थिति:।अत: आर्थ्यपह्नुतिरपि द्विधा विभज्यते।
कपटार्थकशब्दानां प्रयोगजन्यार्थ्यपह्नुतेरुदाहरणं यथा-
बत सखि यदेतत् पश्य वर स्मरस्य
प्रियाविरहकृशेस्मिन् रागिलोके तथा हि।
उपवनसहकारोद्भासितभृङ्गच्छलेन
प्रतिविशिखमनेनोट्टङ्कितं कालकूटम्।।
अत्रोदाहरणे विषाक्तकामदेवशरस्य स्थापना भ्रमरस्य उपमेयभूतस्य निषेधो वर्तते।
परिणामार्थकशब्देन उत्पादिताया आर्थ्यपह्नुतेरुदाहरणं यथा-
अमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृश:
स्मर:शर्वप्लुष्ट: पृथुजघनभागे निपतित:
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे
शिखा धूमस्येयं परिणमति रोमावलिवपु:।।
अत्र प्रकृतस्य रोमावलिशब्दस्य निषेधत्वादिदमुदाहरमपह्नुते: सिद्ध्यति।।
इत्येवम्प्रकारेण संक्षेपेण अपह्नुतिरर्थालङ्कारो ज्ञेय:

.उत्प्रेक्षा-


यत्र मन्ये शङ्के ध्रुवं प्राय: नूनं इत्येतेषां प्रयोगो भवति वा भवति परं लक्ष्यन्ते ते उत्प्रेक्षाया उदाहरणत्वेन साम्मुख्यमाधत्ते। उपमायामेतेषाम्प्रयोगाभावात् भेद: स्पष्टीवर्तत एव। अत्र भ्रमात्मकं स्थानमिवशब्दो भवति। उपमायामुत्प्रेक्षायां वोभयत्र इवशब्दस्य प्रयोगो दरीदृश्यते। परन्तत्र भेदकं चिह्नं भवति क्रियापदं, क्रियापदयुक्तमिवपदमुत्प्रेक्षां विवृणोति। यथोदाहरणाय-


लिम्पन्तीव तमोङ्गानि वर्षतीवाञ्जनं नभ:
असत्पुरुषसेवेव दृष्टिर्विफलताङ्गता।।
अत्र द्रष्टुं शक्यते क्रियापदैस्साकमिवपदस्य प्रयोग: शूद्रकेण कृत: अतोत्रोत्प्रेक्षालङ्कार: भवति। इतोपि यदा इवपदं वाक्येषु भवेत्तथा क्रियया तस्यान्वितिर्न सम्भवेत्सत्यामेतादृश्यां स्थितौ लक्षणमेव शरणम्भवतीत्यपि ध्येयम्भवति।
इत्येवम्प्रकारेण संक्षेपेण उत्प्रेक्षालङ्कार: सोदाहरणं मया प्रतिपादित:

- © दयारामो गौतमः 

टिप्पणियाँ

एक टिप्पणी भेजें

इस ब्लॉग से लोकप्रिय पोस्ट

संस्कृत भाषा में शुभकामनाएँ (Greetings in Sanskrit Language)

कारक प्रकरण (Karak Prakaran)

संस्कृत धातुगण (Sanskrit Dhatugana)